दैनिक साधना

स्तोत्र, आरती और स्वाध्याय

प्रतिदिन के पाठ के लिए।

मङ्गलाचरणम्
पारंपरिक मंगलाचरण
ॐ नमः पार्वती-पतये हर हर हर महादेव ॐ नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे । सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटि-युगधारिणे नमः ॥ ॐ नमः शिवाय गुरवे सचिदानन्द्मूर्तये । निष्प्रपञ्चाय शान्ताय निरालम्बाय तेजसे ॥ नित्यानन्दाय गुरवे शिष्यसंसारहारिणे । भक्तकार्यैकदेहाय नमस्ते चित्सदात्मने ॥ ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै। तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
श्रीगुरुपादुकपञ्च्कम्
आदि शंकराचार्य
ॐ नमो गुरुभ्यो गुरुपादुकाभ्यो नमः परेभ्यः परपादुकाभ्यः । आचार्य-सिद्धेश्वर-पादुकाभ्यो नमो नमः श्रीगुरुपादुकाभ्यः॥१॥ ऐंकारह्रींकार-रहस्ययुक्त- श्रींकारगूढार्थ-महाविभूत्या । ॐकारमर्म-प्रतिपादिनीभ्याम् नमो नमः श्रीगुरुपादुकाभ्याम् ॥२॥ होत्राग्निहोत्राग्निहविष्यहोतृ- होमादि-सर्वाकृतिभासमानम् । यद् ब्रह्म तद्बोधवितारिणीभ्याम् नमो नमः श्रीगुरुपादुकाभ्याम् ॥३॥ कामादि-सर्पव्रजगरुडाभ्याम् विवेक-वैराग्यनिधिप्रदाभ्याम् । बोधप्रदाभ्यां द्रुतमोक्षदाभ्याम् नमो नमः श्रीगुरुपादुकाभ्याम् ॥४॥ अनन्तसंसारसमुद्रतार- नौकायिताभ्यां स्थिरभक्तिदाभ्याम् । जाड्याब्धिसंशोषणवाडवाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥५॥ ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
श्रीगुरुस्तवन
पारंपरिक गुरु स्तवन
संसारवृक्षमारूढाः पतन्तो नरकार्णवे । येन चैवोद्धृताः सर्वे तस्मै श्रीगुरवे नमः ॥१॥ गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥२॥ हेतवे जगतामेव संसारार्णव-सेतवे । प्रभवे सर्वविद्यानां शम्भवे गुरवे नमः ॥३॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशालाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥४॥ त्वं पिता त्वं च मे माता त्वं बन्धुस्त्वं च देवता । संसारप्रतिबोधार्थं तस्मै श्रीगुरवे नमः ॥५॥ यत्सत्येन जगत्सत्यं यत्प्रकाशेन भाति तत् । यदानन्देन नन्दन्ति तस्मै श्रीगुरवे नमः ॥६॥ यस्य स्थित्या सत्यमिदं यद्भाति भानुरूपतः । प्रियं पुत्रादि यत्प्रीत्या तस्मै श्रीगुरवे नमः ॥७॥ येन चेतयते हीदं चित्तं चेतयते न यम् । जाग्रत्स्वप्नसुषुप्त्यादि तस्मै श्रीगुरवे नमः ॥८॥ यस्य ज्ञानादिदं विश्वं न दृश्यं भिन्नभेदतः । सदेकरूपरूपाय तस्मै श्रीगुरवे नमः ॥९॥ यस्यामतं तस्य मतं मतं यस्य न वेद सः । अनन्याभावभावाय तस्मै श्रीगुरवे नमः ॥१०॥ यस्य कारणरूपस्य कार्यरूपेण भाति यत् । कार्यकारणरूपाय तस्मै श्रीगुरवे नमः ॥११॥ नानारूपमिदं सर्वं न केनाप्यस्ति भिन्नता । कार्यकारणता चैव तस्मै श्रीगुरवे नमः ॥१२॥ अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥१३॥ सर्वश्रुतिशिरोरत्न-विराजितपदाम्बुजः । वेदान्ताम्बुजसूर्यो यस्तस्मै श्रीगुरवे नमः ॥१४॥ यस्य स्मरणमात्रेण ज्ञानमुत्पद्यते स्वयम् । य एव सर्वसम्प्राप्तिस्तस्मै श्रीगुरवे नमः ॥१५॥ चैतन्यं शाश्वतं शान्तं व्योमातीतं निरञ्जनम् । नादबिन्दुकलातीतं तस्मै श्रीगुरवे नमः ॥१६॥ स्थावरं जंगमं चैव तथा चैव चराचरम् । व्याप्तं येन जगत्सर्वं तस्मै श्रीगुरवे नमः ॥१७॥ ज्ञानशक्तिसमारूढः तत्त्वमालाविभूषितः । भुक्तिमुक्तिप्रदाता यस्तस्मै श्रीगुरवे नमः ॥१८॥ अनेकजन्मसम्प्राप्त-सर्वकर्मविदाहिने । स्वात्मज्ञानप्रभावेण तस्मै श्रीगुरवे नमः ॥१९॥ न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः । तत्त्वं ज्ञानात्परं नास्ति तस्मै श्रीगुरवे नमः ॥२०॥ मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः । मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥२१॥ ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोर्पदम् । मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥२२॥ गुरुरादिरनादिश्च गुरुः परमदैवतम् । गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ॥२३॥ गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते । अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥२४॥ अकथादि त्रिरेखाब्जे सहस्रदलमण्डले । हंसपार्श्वत्रिकोणे च स्मरेतन्मध्यगं गुरुम् ॥२५॥ माता धन्या पिता धन्यो धन्यो वंशः कुलं तथा । धन्या च वसुधा देवि गुरुभक्तिः सुदुर्लभा ॥२६॥ ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम् द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् । एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतम् भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥२७॥ ॥ श्रीगुरुदेवचरणार्पणमस्तु ॥
शिवमानसपूजा
आदि शंकराचार्य
रत्नैः कल्पितमासनं हिमज लैः स्नानं च दिव्याम्बरम् नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् । जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥१॥ सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसम् भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् । शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्वलम् ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकारु ॥२॥ छत्रं चामरयोर्युगं व्यजनकं चादर्ंशकं निर्मलम् वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा । साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥३॥ आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहम् पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः । सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥४॥ करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वापराधम् । विहितमविहितं वा सर्वमेतत्क्षमस्व जय जय करुणाब्धे श्रीमहादेव शम्भो ॥५॥ इति श्रीमद् शङ्कराचार्य विरचिता शिवमानसपूजा समाप्तः ॥
श्रीललिता त्रिशति
श्रीब्रह्माण्डपुराण
श्रीललितात्रिशतीस्तोत्रम् ॥ ॐ नमस्त्रिपुरसुन्दर्यै ॥ ॐ अस्य श्रीललितात्रिशतीस्तोत्रमालामन्त्रस्य भगवान् हयग्रीव ऋषिः, अनुष्टुप् छन्दः, श्रीललिता-महाभट्टारिका देवता, ऐं बीजं, सौः शक्तिः, क्लीं कीलकं, श्रीगुरु-प्रसाद-सिद्ध्यर्थे जपे विनियोगः ॥ अथ ध्यानम् अतिमधुर-चापहस्तामपरिमित-मोदबाण-सौभाग्यम् । अरुणामतिशय-करुणामाभिनव-कुल-सुन्दरीं वन्दे ॥ अथ श्रीललिता-त्रिशती-स्तोत्रं प्रारम्भः ककाररूपा कल्याणी कल्याण-गुण-शालिनी । कल्याण-शैल-निलया कमनीया कलावती ॥ १ ॥ कमलाक्षी कल्मषघ्नी करुणामृत-सागरा । कदम्ब-काननावासा कदम्ब-कुसुम-प्रिया ॥ २ ॥ कंदर्प-विद्या कंदर्प-जनकापाङ्ग-वीक्षण । कर्पूरवीटी-सौरभ्य-कल्लोलित-ककुप्पटा ॥ ३ ॥ कलि-दोष-हरा कञ्ज-लोचना कम्र-विग्रहा । कर्मादि-साक्षिणी कारयित्री कर्म-फल-प्रदा ॥ ४ ॥ एकार-रूपा चैकाक्षर्येकानेकाक्षराकृतिः । एतत्-तदित्यनिर्देश्या चैकानन्दचिदाकृतिः ॥ ५ ॥ एवमित्यागमाबोध्या चैकभक्तिमदर्चिता । एकाग्र-चित्त-निर्ध्याता चैषणारहितादृता ॥ ६ ॥ एला-सुगन्धि-चिकुरा चैनःकूट-विनाशिनी । एकभोगा चैकरसा चैकैश्वर्य-प्रदायिनी ॥ ७ ॥ एकछत्र-साम्राज्य-प्रदा चैकान्तपूजिता । एधमान-प्रभा चैजदनेक-जगदीश्वरी ॥ ८ ॥ एकवीरादि-संसेव्या चैकप्राभव-शालिनी । ईकार-रूपा चेशित्री चेप्सितार्थ-प्रदायिनी ॥ ९ ॥ ईदृगित्याविनिर्देश्या चेश्वरत्वविधायिनी । ईशानादि-ब्रह्ममयी चेशित्वाद्यष्ट-सिद्धिदा ॥ १० ॥ ईक्षित्री-क्षण-सृष्टाण्ड-कोटीरीश्वरवल्लभा । ईडिता चेश्वरार्धाङ्ग-शरीरेशाधिदेवता ॥ ११ ॥ ईश्वर-प्रेरणकरी चेशताण्डव-साक्षिणी । ईश्वरोत्सङ्ग-निलया चेति-बाधा-विनाशिनी ॥ १२ ॥ ईहा-विरहिता चेशशक्तिर् ईषत्-स्मितानना । लकार-रूपा ललिता लक्ष्मी-वाणी-निषेविता ॥ १३ ॥ लाकिनी ललनारूपा लसद्दाडिम-पाटला । ललन्तिका-लसत्फाला ललाट-नयनारचिता ॥ १४ ॥ लक्षणोज्वल-दिव्याङ्गी लक्ष-कोट्याण्ड-नायिका । लक्ष्यार्था लक्षणागम्या लब्ध-कामा लता-तनुः ॥ १५ ॥ ललामराजदालिका लम्बिमुक्तालताञ्चिता । लम्बोदर-प्रसूर्लभ्या लज्जाढ्या लय-वर्जिता ॥ १६ ॥ ह्रींकार-रूपा ह्रींकार-निलया ह्रीम्पद-प्रिया । ह्रींकार-बीजा ह्रींकार-मन्त्रा ह्रींकार-लक्षणा ॥ १७ ॥ ह्रींकार-जप-सुप्रीता ह्रींमती ह्रीं-विभूषणा । ह्रीं-शीला ह्रीं-पदारोध्या ह्रीं-गर्भा ह्रीं-पदाभिधा ॥ १८ ॥ ह्रींकार-वाच्या ह्रींकार-पूज्या ह्रींकार-पीठिका । ह्रींकार-वेद्या ह्रींकार-चिन्त्या ह्रीं ह्रीं-शरीरिणी ॥ १९ ॥ हकार-रूपा हलधृक्-पूजिता हरिणेक्षणा । हर-प्रिया हराराध्या हरि-ब्रह्मेन्द्र-वन्दिता ॥ २० ॥ हयारूढासेविताङ्घ्रिर्हयमेध-समर्चिता । हर्यक्ष-वाहना हंस-वाहना हत-दानवा ॥ २१ ॥ हत्यादि-पाप-शमनी हरिदश्वादि-सेविता । हस्तिकुम्भोत्तुङ्ग-कुचा हस्ति-कृत्ति-प्रियाङ्गना ॥ २२ ॥ हरिद्रा-कुङ्कुमादिग्धा हर्यश्वाद्यमरारचिता । हरिकेश-सखी हादि-विद्या हालामदालसा ॥ २३ ॥ सकार-रूपा सर्वज्ञा सर्वेशी सर्वमङ्गला । सर्व-कर्त्री सर्व-भर्त्री सर्व-हन्त्री सनातनी ॥ २४ ॥ सर्वानवद्या सर्वाङ्ग-सुन्दरी सर्व-साक्षिणी । सर्वात्मिका सर्व-सौख्य-दात्री सर्व-विमोहिनी ॥ २५ ॥ सर्वाधारा सर्व-गता सर्वावगुण-वर्जिता । सर्वारुणा सर्व-माता सर्वाभूषण-भूषिता ॥ २६ ॥ ककारार्था काल-हन्त्री कामेशी कामितार्थदा । काम-सञ्जीवनी कल्या कठिनस्तनमण्डला ॥ २७ ॥ करभोरुः कलानाथ-मुखी कच-जिताम्बुदा । कटाक्ष-स्यन्दि-करुणा कपालि-प्राणनायिका ॥ २८ ॥ कारुण्य-विग्रहा कान्ता कान्ति-धूत-जपावलिः । करालापा कम्बु-कण्ठी कर-निर्जित-पल्लवा ॥ २९ ॥ कल्पवल्ली-समभुजा कस्तूरी-तिलकाञ्चिता । हकारार्था हंसगतिः हाटकाभरणोज्वला ॥ ३० ॥ हारहारि-कुचाभोगा हाकिनी हल्यवर्जिता । हरित्-पति-समाराध्या हठात्-कार-हतासुरा ॥ ३१ ॥ हर्ष-प्रदा हविर्भोक्त्री हार्द-सन्त मसापहा । हल्ली स-लास्य-सन्तुष्टा हंस-मन्त्रार्थ-रूपिणी ॥ ३२ ॥ हानोपादान-निर्मुक्ता हर्षिणी हरिसोदरी । हाहा-हूहू-मुख-स्तुत्या हानि-वृद्धि-विवर्जिता ॥ ३३ ॥ हयङ्गवीन-हृदया हरिगोपारुणांशुका । लकाराख्या लता-पूज्या लय-स्थित्युद्भवेश्वरी ॥ ३४ ॥ लास्य-दर्शन-सन्तुष्टा लाभालाभ-विवर्जिता । लङ्घ्ये तराज्ञा लावण्य-शालिनी लघु-सिद्धिदा ॥ ३५ ॥ लाक्षारस-सवर्णाभा लक्ष्मणाग्रज-पूजिता । लभ्ये तरा लब्ध-भक्ति-सुलभा लाङ्गलायुधा ॥ ३६ ॥ लग्न-चामर-हस्त-श्री-शारदा-परिवीजिता । लज्जापद-समाराध्या लम्पटा लकुलेश्वरी ॥ ३७ ॥ लब्धमाना लब्ध-रसा लब्ध-सम्पत्-समुन्नतिः । ह्रींकारिणी ह्रींकाराद्या ह्रींमध्या ह्रींशिखामणिः ॥ ३८ ॥ ह्रींकार-कुण्डाग्निशिखा ह्रींकार-शशि-चन्द्रिका । ह्रींकार-भास्कररुचिः ह्रींकाराम्भोध-चञ्चला ॥ ३९ ॥ ह्रींकार-कन्दाङ्कुरिका ह्रींकारैक-परायणा । ह्रींकार-दीर्घिका-हंसी ह्रींकारोद्यान-केकिनी ॥ ४० ॥ ह्रींकारारण्य-हरिणी ह्रींकारावाल-वल्लरी । ह्रींकार-पञ्जर-शुकी ह्रींकाराङ्गण-दीपिका ॥ ४१ ॥ ह्रींकार-कन्दरा-सिंही ह्रींकाराम्भोज-भृङ्गिका । ह्रींकार-सुमनोमाध्वी ह्रींकार-तरु-मञजरी ॥ ४२ ॥ सकाराख्या सम-रसा सकलागम-संस्तुता । सर्ववेदान्त-तात्पर्य-भूमिः सदसदाश्रया ॥ ४३ ॥ सकला सच्चिदानन्दा साध्या सद्गति-दायिनी । सनकादि-मुनि-ध्येया सदाशिव-कुटुम्बिनी ॥ ४४ ॥ सकलाधिष्ठान-रूपा सत्य-रूपा समाकृतिः । सर्व-प्रपञ्च-निर्मात्री समानाधिक-वर्जिता ॥ ४५ ॥ सर्वोत्तुङ्गा सङ्गहीना सगुणा सकलेष्टदा । ककारिणी काव्य-लोला कामेश्वर-मनोहारा ॥ ४६ ॥ कामेश्वर-प्राणनाडी कामेशोत्सङ्गवासिनी । कामेश्वरालिङ्गिताङ्गी कामेश्वर-सुख-प्रदा ॥ ४७ ॥ कामेश्वर-प्रणयिनी कामेश्वर-विलासिनी । कामेश्वर-तपः-सिद्धिः कामेश्वर-मनःप्रिया ॥ ४८ ॥ कामेश्वर-प्राणनाथा कामेश्वर-विमोहिनी । कामेश्वर-ब्रह्मविद्या कामेश्वर-गृहेश्वरी ॥ ४९ ॥ कामेश्वराह्लादकरी कामेश्वर-महेश्वरी । कामेश्वरी कामकोटि-निलया काङ्क्षितार्थदा ॥ ५० ॥ लकारिणी लब्धरूपा लब्धधीर्लब्धवाञ्छिता । लब्ध-पाप-मनोदूरा लब्धाहङ्कार-दुर्गमा ॥ ५१ ॥ लब्धशक्तिर्लब्धदेहा लब्धैश्वर्य-समुन्नतिः । लब्धवृद्धिर्लब्धलीला लब्ध-यौवन-शालिनी ॥ ५२ ॥ लब्धातिशय-सर्वाङ्ग-सौंदर्या लब्धविभ्रमा । लब्धरागा लब्धपतिः लब्धनानागमस्थितिः ॥ ५३ ॥ लब्ध-भोगा लब्ध-सुखा लब्ध-हर्षाभिपूरिता । ह्रींकारमूर्तिर्ह्रींकार-सौध-शृङ्ग-कपोतिका ॥ ५४ ॥ ह्रींकार-दुग्धाब्धि-सुधा ह्रींकार-कमलेन्दिरा । ह्रींकारमणिदी पार्चिः ह्रींकार-तरुशारिका ॥ ५५ ॥ ह्रींकारपेटकमणिः ह्रींकारादर्श-बिम्बिता । ह्रींकार-कोशासि-लता ह्रींकारस्थान-नर्तकी ॥ ५६ ॥ ह्रींकार-शुक्तिका-मुक्तामणिर्ह्रींकार-बोधिता । ह्रींकारमय-सौवर्ण-स्तम्भ-विद्रुम-पुत्रिका ॥ ५७ ॥ ह्रींकार-वेदोपनिषद् ह्रींकाराध्वर-दक्षिणा । ह्रींकारनन्दनाराम-नव-कल्पक-वल्लरी ॥ ५८ ॥ ह्रींकार-हिमवद्-गङ्गा ह्रींकारार्णव-कौस्तुभा । ह्रींकार-मन्त्र-सर्वस्वा ह्रींकारपर-सौख्यदा ॥ ५९ ॥ ललिता-प्रेरितेनैव मयोक्तं स्तोत्रमुत्तमम् । रहस्य-नाम-साहस्रादपि गोप्यमिदं मुने ॥ ६० ॥ एवमुक्त्वा हयग्रीवः कुम्भजं तापसोत्तमम् । स्तोत्रेणानेन ललितां स्तुत्वा त्रिपुरसुन्दरीम् । आनन्दलहरी-मग्न-मानसः समवर्तत ॥ ६१ ॥ ॥ ॐ इति श्रीब्रह्माण्डपुराणे श्रीहयग्रीवागस्त्यसंवादे श्रीललितोपाख्याने स्तोत्रखण्डे श्रीललिता त्रिशतीस्तोत्ररत्नं सम्पूर्णम् ॥ ॥ ॐ नमस्त्रिपुरसुन्दर्यै ॥ ॥ श्रीगुरुदेवचरणार्पणमस्तु ॥
ज्योत से ज्योत
आरती
ज्योत से ज्योत जगाओ, सदगुरु ज्योत से ज्योत जगाओ, मेरा अंतर तिमिर मिटाओ, सदगुरु ज्योत से ज्योत जगाओ॥ हे योगेश्वर! हे ज्ञानेश्वर! हे सर्वेश्वर! हे परमेश्वर! निज कृपा बरसाओ.... सदगुरु ज्योत से.... हम बालक तेरे द्वार पे आये मंगल दरस दिखाओ.... सदगुरु ज्योत से.... शीश झुकाय करें तेरी आरती प्रेमसुधा बरसाओ.... सदगुरु ज्योत से.... अंतर में युग-युग से सोई चितिशक्ति को जगाओ.... सदगुरु ज्योत से.... साँची ज्योत जगे हृदय में सोऽहं नाद जगाओ.... सदगुरु ज्योत से.... जीवन मुक्तानंद अविनाशी चरनन शरण लगाओ.... सदगुरु ज्योत से....
श्रीज्ञानेश्वर महाराज
पारंपरिक आरती
आरती ज्ञानराजा ~ महाकैवल्य तेजा ~ सेविती साधुसंत ~ मन वेधला माझा ॥ आरती ज्ञानराजा...॥ध्रु॥ लोपले ज्ञान जगी ~ हित नेणती कोणी । अवतार पांडुरंग ~ नाम ठेविले ज्ञानी ॥१॥ आरती ज्ञानराजा...॥ध्रु॥ कनकाचे ताट करी ~ उभ्या गोपिका नारी । नारद तुंबरू हो ~ साम गायन करी ॥२॥ आरती ज्ञानराजा...॥ध्रु॥ प्रकट गुह्य बोले ~ विश्व ब्रह्मचि केले । रामजनार्दनी ~ पायी मस्तक ठेविले ॥३॥ आरती ज्ञानराजा...॥ध्रु॥
प्रार्थना
पारंपरिक प्रार्थना
त्वमेव माता च पिता त्वमेव, त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव, त्वमेव सर्वं मम देवदेव ॥ दूर करो दुःख दर्द सब, दया करो भगवान । मन मन्दिर में उज्ज्वल हो, तेरा निर्मल ज्ञान ॥ जिस घर में हो आरती, चरणकमल चित लाग । तहाँ हरि वासा करें, ज्योत अनन्त जगाय ॥ जहाँ भक्त कीर्तन करें, बहे प्रेम दरियाय । तहाँ हरि श्रवण करें, सत्य लोक से आय ॥ सब कुछ दिया आपने, भेंट करूं क्या नाथ । नमस्कार की भेंट करूं, जोड़ूं मैं दोनों हाथ ॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ सदगुरुनाथ महाराज की जय ॥
पसायदान
संत ज्ञानेश्वर
आताँ विश्वात्मकें देवें । येणें वाग्यज्ञें तोषावें । तोषुनि मज द्यावें । पसायदान हें ॥१॥ जे खळांची व्यंकटी सांडो । तयां सत्कर्मीं रति वाढो । भूतां परस्परें पडो । मैत्र जीवाचें ॥२॥ दुरितांचे तिमिर जावो । विश्व स्वधर्म सूर्ये पाहो । जो जे वाञ्छील तो तें लाहो । प्राणी जात ॥३॥ वर्षत सकळ मंगळीं । ईश्वर-निष्ठांची मांदियाळी । अनवरत भूमंडळीं । भेटतु भूतां ॥४॥ चलां कल्पतरूंचे आरव । चेतना चिंतामणींचें गाव । बोलते जे अर्णव । पीयूषाचे ॥५॥ चंद्रमे जे अलांच्छन । मार्तंड जे तापहीन । ते सर्वांही सदा सज्जन । सोयरे होतु ॥६॥ किंबहुना सर्वसुखीं । पूर्ण होवोनि तिहीं लोकीं । भजिजो आदि पुरुषीं । अखंडित ॥७॥ आणि ग्रंथोपजीविये । विशेषीं लोकीं इयें । दृष्टादृष्टविजये । होआवे जी ॥८॥ येथ म्हणे श्रीविश्वेशरांवो । हा होईल दानपसावो । येणें वरें ज्ञानदेवो । सुखिया जाला ॥९॥